Songs and Rhymes in Sanskrit

Inspirations that leave imprints..

Sujatha Ratnala
4 min readOct 27, 2023

During my spoken Sanskrit workshop some ten years back, I was enchanted by the songs.. Could only catch a few words here and there, and hoped to relish every bit someday.. Celebrating once again with these songs.. Gratitude to Sai Susarla ji, who sparked this interest in his students.

चटका, चटका, रे चटका

चटका, चटका, रे चटका
चिँव्, चिँव् कूजसि
त्वं विहगा ॥

नीडे निवससि सुखेन डयसे
खाद
सि फलानि मधुराणि ।
विहर
सि विमले विपुले गगने
नास्ति जनः खलु वारयिता ॥

मातापिरौ इह मम न स्तः
एकाकी खलु खिन्नोऽहम् ।
एहि समीपं चिँव् चिँव् मित्र
ददामि तुभ्यं बहुधान्यम् ॥

चणकं स्वीकुरु पिब रे नीरं
त्वं पुनरपि
रट चिँव् चिँव् चिँव् ।
तोषय मां
कुरु मधुरालापं
पाठय मामपि तव भाषाम् ॥

जन्मदिनमिदम् अयि प्रिय सखे

जन्मदिनमिदम् अयि प्रिय सखे
शंतनोतु हि सर्वदा मुदम् ।

प्रार्थयामहे भव शतायु:
ईश्वर सदा त्वाम् च रक्षतु ।
पुण्य कर्मणा कीर्तिमार्जय
जीवनम् तव भवतु सार्थकम्

Hey dear friend.. It’s your birthday.. May you expand into eternal bliss.

We pray.. May you live a 100 years. May the Lord protect you always.. May you gain glory through meritorious acts .. May your life be fruitful.

रामः लिखति अ-आ-इ-ई

Imagine if you were given a challenge to compose a song with all the alphabets in their order?

Here it is.. Additionally, vibhakti usages illustrated.

रामः लिखति अ-आ-इ-ई । कृष्णः लिखति उ-ऊ-ऋ-लृ ।
बाला लिखति ए-ओ-ऐ-औ । अं अः लिखति गोपीनाथः ।।१।।

का त्वं बाले? काञ्चनमाला । कस्याः पुत्री? कनकलतायाः ।
हस्ते किं ते? तालीपत्रम् । का वा रेखा? क-ख-ग-घ ।।२।।

कस्त्वं बाल? मोहनकृष्णः । कस्याः पुत्रः? हेमलतायाः ।
हस्ते किं तत्? लेखनफलकम् । किं तल्लिखितं? च-छ-ज-झ ।।३।।

का त्वं बाले? स्नेहलताहम् । कस्याः पुत्री? हंसलतायाः ।
हस्ते किं तत्? लेखनपत्रम् । किं वा लिखसि? ट-ठ-ड-ढ ।।४।।

कस्त्वं बाल? दीनदयालुः । को वा जनकः? रामकिशोरः ।
हस्ते किं ते? पुस्तकमेव । किं वा पठसि? त-थ-द-ध ।।५।।

सुरससुबोधा विश्वमनोज्ञा

A beautiful song illustrating the attributes of Sanskrit, and the famous works in the wheel of time.

सुरससुबोधा विश्वमनोज्ञा
ललिता हृद्या रमणीया ।
अमृतवाणी संस्कृतभाषा
नैव क्लिष्टा न च कठिना ॥प॥

कविकोकिल-वाल्मीकि-विरचिता
रामायण-रमणीयकथा ।
अतीवसरला मधुरमञ्जुला
नैव क्लिष्टा न च कठिना ॥१॥

व्यासविरचिता गणेशलिखिता
महाभारते पुण्यकथा ।
कौरव-पाण्डव-सञ्गर-मथिता
नैव क्लिष्टा न च कठिना ॥२॥

कुरुक्षेत्र-समराञ्गण-गीता
विश्ववन्दिता भगवद्गीता ।
अमृतमधुरा कर्मदीपिका
नैव क्लिष्टा न च कठिना ॥३॥

कविकुलगुरु-नव-रसोन्मेषजा
ऋतु-रघु-कुमार-कविता ।
विक्रम-शाकुन्तल-मालविका
नैव क्लिष्टा न च कठिना ॥४॥

मनसा सततम् स्मरणीयम्

One should remember to always walk tread in the right path.. In the path of action and service. Be it in the darkdays or in happy times.

मनसा सततम् स्मरणीयम्
वचसा सततम् वदनीयम्
लोकहितम् मम करणीयम् ॥धृ॥

न भोग भवने रमणीयम्
न च सुख शयने शयनीयम्
अहर्निशम् जागरणीयम्
लोकहितम् मम करणीयम् ॥१॥

न जातु दुःखम् गणनीयम्
न च निज सौख्यम् मननीयम्
कार्य क्षेत्रे त्वरणीयम्
लोकहितम् मम करणीयम् ॥२॥

दुःख सागरे तरणीयम्
कष्ट पर्वते चरणीयम्
विपत्ति विपिने भ्रमणीयम्
लोकहितम् मम करणीयम् ॥३॥

गहनारण्ये घनान्धकारे
बन्धु जना ये स्थिता गह्वरे

तत्र मया सन्चरणीयम्
लोकहितम् मम करणीयम् ॥४॥

मृदपि च चन्दनम्‌

Even Clay can be transformed into the holy chandan

मृदपि च चन्दनमस्मिन्‌ देशे ग्रामो ग्रामः सिद्धवनम्‌ ।
यत्र च बाला देवीस्वरूपा बालाः सर्वे श्रीरामाः ॥

हरिमन्दिरमिदमखिलशरीरम्‌
धनशक्ति-जनसेवायै
यत्र च क्रीडायै वनराजः
धेनुर्माता परमशिवा॥
नित्यं प्रातः शिवगुणगानं
दीपनुतिः खलु शत्रुपरा ॥

भाग्यविधायि निजार्जित कर्म
यत्र श्रमः श्रियमर्जन्यति।
व्याग धनानां तपोनिधीनां
गाथां गायति कविवाष्पि
गङ्गाजलमिव नित्यनिर्मलं
ज्ञानं शंसति यतिवाणी ॥ ॥मृदपि॥

यत्र हि नैव स्वदेहविमोहः
युद्धरतानां वीराणाम्‌ ।
यत्र हि कृषकः कार्यरतः सन्‌
पश्यति जीवनसाफल्यम्‌
जीवनलक्ष्यं न हि धनपदवी
यत्र च परशिव पद सेवा ॥ ॥मृदपि॥

-श्री जनार्दन हेगडे

यं वैदिका मन्त्रदृशः

Unity in Diversity.. People see differently.. Vedanta, Shiva, Vishnu, Sikh Guru, Swami, Mata, Pita. All pathways reflect on the same truth.

यं वैदिका मन्त्रदृशः पुराणाः इन्द्रं यमं मातरिश्वा नमाहुः।
वेदान्तिनो निर्वचनीयमेकम् यं ब्रह्म शब्देन विनिर्दिशन्ति॥

शैवायमीशं शिव इत्यवोचन् यं वैष्णवा विष्णुरिति स्तुवन्ति।
बुद्धस्तथार्हन् इति बौद्ध जैनाः सत् श्री अकालेति च सिख्ख सन्तः॥

शास्तेति केचित् कतिचित् कुमारः स्वामीति मातेति पितेति भक्त्या।
यं प्रार्थन्यन्ते जगदीशितारम् स एक एव प्रभुरद्वितीयः॥

कृत्वा नव दृढ संकल्प

Having taken a firm resolve, let us rebuild towards progress.

कृत्वा नव दृढ संकल्प वितरन्तो नव संदेशम
घटयामो नव संघटनं रचयामो नवमितिहासम् || धृ ||

नवमन्वन्तर शिल्पीन: राष्ट्रसमुन्नति कांक्षिण: |
त्यागधन: कार्येकरता: कृतिनिपुण: वयम विषण्ण: || १ ||
कृत्वा नव दृढ संकल्पम्…. || धृ ||

भेदभावना निरासयन्त: दिनदरिद्राम समुद्धरन्त: |
दु:ख वितप्तान समाश्वसन्त: कृतसंकल्पा सदास्मरन्त: || २ ||
कृत्वा नव दृढ संकल्पम्…. || धृ ||

प्रगतिपथान्नहि विचलेम परम्परा संरक्षेम |
समोत्साहिनो निरुद्वेगीनो नित्य निरंतर गतिशीला: || ३ ||
कृत्वा नव दृढ संकल्पम्…. || धृ ||

Meaning

Having taken a pledge to spread the new message,
We will build a new organization and make a new history.

We are the creators of a new age and we want the nation to progress.
We are fully focused and dedicated to our work.
We are skilled and take pride in our work.

We are here to remove disparity and uplift the poor.
We shall offer solace to victims of sorrow.
We will always remember our pledge.

We will not be distracted from our path of progress and we will preserve our tradition.
With enthusiasm and without any feeling of anxiety, we will continue to progress further

--

--

Sujatha Ratnala

I write.. I weave.. I walk.. कवयामि.. वयामि.. यामि.. Musings on Patterns, Science, Linguistics, Sanskrit et al..