Bartruhari.. The divine fruit

Sujatha R
2 min readMar 25, 2024

श्री गुरुभ्यो नमः
Prewritten in Sanskrit by Smt. Uma Jayaraman

भर्तृहरिः

Everyone must have perhaps heard of Bartruhari. He is a well-known सुभाषितकारः and has composed over 300 of them. One subhashita goes like this..

I think of her all the time.. and yet she is indifferent
She too desires someone .. and he desires somebody else..
And that someone pines for me..
Damn her! Damn him! Damn the passion! Damn all of this! And Damn me!

भर्तृहरिः इति कवेः नाम प्रायशः सर्वे जानन्ति एव। सः विश्रुतः सुभाषितकारः। सः सुभाषित-त्रिशतम् लिखितवान्। तत्र एकः श्लोकः वर्तते।

“यां चिन्तयामि सततं मयि सा विरक्ता,
साप्यन्यमिच्छति जनं स जनोऽन्यसक्तः।
अस्मत्कृते च परिशुष्यति काचिदन्या,
धिक् तां च.. तं च.. मदनं च.. इमां च.. मां च॥”

What incident could have perhaps caused this turning point in him ? There is an interesting story nevertheless..

कया घटनया प्रेरितः भूत्वा कविः एनं श्लोकं व्यरचयत् इति अस्मिन् विषये/प्रकरणे काचन रुचिकरा कथा श्रूयते!

Bartruhari was once the ruler of Ujjain. A sanyaasi once arrived at his palace. Pleased with the reception, he gifted the King a special fruit. The fruit was to be eaten by the King alone, or by someone whom he loved dearly. For whoever would eat the fruit would gain immortality.

The King loved his wife dearly, and gave the special fruit to her. Unfortunately, she loved someone else, and handed over the fruit to him. That He loved another lady, who inturn loved the King, and finally the fruit comes back to the King.

पुरा भर्तृहरिः उज्जयिन्यां राज्यम् अकरोत्। एकदा कोऽपि संन्यासी भर्तृहरेः राज्ञः प्रासादम् आगतवान्। सः राज्ञः सत्कारेण प्रीतः सन् राज्ञे एकं दिव्यं फलं दत्तवान् । राजा एव फलं खादतु अथवा या कापि व्यक्तिः तस्य प्रियतमा स्यात् तस्यै एतत् फलं ददातु इति तम् उक्तवान्। यः कोऽपि एतत् दिव्यं फलं खादति सः जनः अमरत्वं प्राप्नुयात् इति उक्त्वा सः संन्यासी गतवान्।

राजा तस्य भार्याम् अतीव प्रीणाति स्म अतः प्रीत्या तत् फलं भार्यायै दत्तवान्। दौर्भाग्यवशात् सा राज्ञी तु कमपि अन्यं जनं प्रीणाति स्म। अतः तत्फलं तस्मै जनाय अयच्छत्। सः जनः एकस्यै गणिकायै रहसि तदेव फलम् अददात्। सा गणिका भर्तृहरौ राज्ञि अनुरक्ता आसीत् । अतः तत् फलम् आनीय राज्ञे एव अर्पितवती।

The King is surprised and dejected by the turn of events. His mind was filled with Vairagyam. Leaving behind his family and Kingdom, he became a monk.

Bartruhari performed severe penance and contemplation. With passing time, he composed 3 works, each of 100 lines — शृङ्गारशतकम्, नीतिशतकम्, वैराग्यशतकम्. And he gained immense popularity and fame as a सुभाषितकारः

तत्फलं पुनः दृष्ट्वा राजा चकितः, दुःखितः च अभूत्। तस्य मनसि वैराग्यभावः समुत्पन्नः। वितृष्णया सः राज्यं कुटुम्बं च विहाय संन्यासी अभूत्।

भर्तृहरिः घोरं तपः समाचरत्। गच्छति काले शृङ्गारशतकम्, नीतिशतकम्, वैराग्यशतकम् इति सुभाषित-त्रिशतम् च अलिखत्। सः सुभाषितकारः इति ख्यातिं च प्राप्नोत्।

--

--

Sujatha R

I write.. I weave.. I walk.. कवयामि.. वयामि.. यामि.. Musings on Patterns, Linguistics, Sanskrit et al..